Shiv Aparadhkshamapan Stotram
- शिव अपराध क्षमापन स्तोत्रं –
- आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां
- विणमूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।
- यधयद्वै तत्र दुखं व्य्थयति नितरां शक्यते केन वक्तुं
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥ १॥
- बाल्ये दुःखातिरेको मललुलित वपु: स्तन्यपाने पिपासा
- नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो माँ तुदन्ति ।
- नानारोगादिदुखदृदन परवशः शंकरं न स्मरामि,
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥२॥
- प्रौढो अहं यौवनस्थो विषय विषधरै: पञ्चभिर्मर्मसन्धौ
- दष्टो नष्टो विवेक: सुतधनयुवतिस्वादुसौख्ये निषण्ण:।
- शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥३॥ |
- वार्ध्दक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवदितापै:
- पापै रोगैर्वियोगेस्तवनवसितवपुः प्रौढ़हीनं च दीनम् ।
- भ्रमति मम मनो धूर्जटेध्यानशून्यम्
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥४।।
- नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
- श्रोते वार्ता कथं में द्विजकुलविहिते ब्रम्हमार्गे सुसारे ।
- ज्ञातो धर्मो विचारौ: श्रवण मननयो:किं निदिध्यासितव्यम्
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥५॥
- स्नात्वा प्रत्युष काले स्न पन विधि विधौ नाहृतं गांगतोयं
- पूजार्थं वा कदाचिद् बहुतरगहनात्खण्डबिल्वीदलानि ।
- नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थम्
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥६॥
- दुग्घैरमध्वाज्ययुक्तैर्दधिसि
तसहितै: स्नापितं नैव लिंगं - नो लिप्तं चन्दनाध्यै: कनकविरचितैः पूजितं न प्रसूनैः ।
- धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै:
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥७॥
- ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
- हव्यं ते लक्षसंख्यैर्हुतवहवदने नर्पितं बीजमन्त्रैः
- नो तप्तं गांगतीरे व्रतजपनियमै रूद्रजाप्यैर्न वेदैः
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥८॥
- स्थित्वा स्थाने सरोजे प्रणवमयमरूत्कुण्डले सूक्ष्ममार्गे
- शान्ते स्वान्ते प्रलीने प्रकटित विभवे ज्योतिरुपे पराख्ये ।
- लिंगगंज्ञे ब्रम्हवाक्ये सकलतनुगतं शंकरं न स्मरामि
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥९॥
- नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
- नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्ट: कदाचित ।
- उन्मन्यावसथ्या त्वां विगतकलिमलं शंकरं न स्मरामि
- क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥१०॥
- चन्द्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे
- सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।
- दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
- मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः ॥ ११ ॥
- किं वानेन धनेन वाजीकरिभि प्राप्तेन राज्येन किं
- किं वा पुत्रकलत्र मित्रपशुभिर्देहेन गेहेन किम ।
- ज्ञात्वैततक्षण भंगुरं सपदि रे त्याज्यं मनो दूरतः
- स्वात्मार्थं गुरुवाक्यतो भज भज श्री पारवती वल्लभम् ॥ १२॥
- आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
- प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगदभक्षकः ।
- लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं
- तस्मान्मां शरणागतम शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥
- कर चरण कृतं वाक् कायजं वा
- श्रवण नयनजं वा मानसं वापराधम ।
- विहितमविहितं वा सर्वमेतत्क्षमस्व
- जय जय करुणाब्धे श्री महादेव शम्भो ॥ १४ ॥
इति श्री शंकराचार्यविरचितं शिवापराधक्षमापनस्तोत्रं सम्पूर्णम्