Shri Tulsi Stotra and Stuti .
तुलसी मंत्र –
|| ॐ श्रीं ह्रीं क्लीं ऐं वृंदावन्यै स्वाहा ||
” नारायणकृतं तुलसी स्तोत्रम् “
नारायण ऊवाच –
वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च।
विदुर्बुधास्तेन वृन्दां हरिप्रियां भजाम्यहम् ॥
पुरा बभूव या देवी त्वादौ वृन्दावने वने।
तेन वृन्दावनी ख्याता सौभाग्यां तां भजाम्यहम् ॥
असंख्येषु च विश्वेषु पूजिता या निरंतरम्।
तेन विश्वपूजिताख्यां पूजितां च भजाम्यहम् ॥
असंख्यानि च विश्वानि पवित्राणि त्वया सदा।
तां विश्वपावनीं देवी विरहेण स्मराम्यहम् ॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना।
तां पुष्पसारां शुध्दां च द्रष्टुमिच्छामि शोकतः ॥
विश्वे यत्प्राप्तिमात्रेण भक्तानंदो भवेद् ध्रुवम्।
नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च।
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥
कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती।
तेन कृष्णजीवनी सा सा मे रक्षतुजीवनम् ॥