Govindashtakam.
गोविंदाष्टकम——
चिदानंदाकारं श्रुतिसरससारं समरसं निराधाराधारं भावजलधिपारं परगुणम |
रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तन गोविन्दं परमसुखकन्द भजत रे ||१||
महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम |
मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा ||२ ||
धिया धीरैर्ध्येयं श्रवणपुटपेयं यति वरैर्महा वाक्यैर्ग्येयं त्रिभुवन विधेयं विधिपरम |
मनोमानामयं सपदि हृदि नेयं नवतनुं सदा ||३ ||
माहामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशि मुखम |
कलातीतं कालं गतिहतमरालं मुररिपुं सदा ||४ ||
नभोबिम्बस्फीतं निगमगणगीतं समगतिं सरोधै: समप्रीतं दितिजविरीतं पुरिशयम |
गिरां मार्गातीतं स्वदितनवनीतं नयकरं सदा ||५ ||
परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं तनुकुटिलकेशं कलिहरम |
खगेशं नागेशं निखिलभुवनेशं नागधरं सद| ||६ ||
रमाकान्तं कान्तं भवभयभयान्तं भवसुखं दुराशान्तं निखिलहृदि भान्तं भुवनपम |
विवादान्तं दान्तं दानु जनिचयान्तं सुचरितं सदा || ७ ||
जगज्ज्येष्ठं श्रेष्ठं सुरपति कनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरहम |
स्वविष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा ||८ ||
गदापाणेरेतददुरितदलनं दुःखशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो सततम |
स भुक्त्वा भोगौघं चिरमहि ततोsपास्तवृजिन: परं विष्णो स्थानं व्रजति खलु वैकुण्ठ भुवनम ||९ ||