Shree Veenu Geetam
अथैकविंशो अध्याय:
श्रीशुक उवाच –
इत्थं शरत्स्वच्च्जलम पध्माकरसुगन्धिना |
न्यविषद वायुना वातं सगोगोपालकोअच्युत: || १||
न्यविषद वायुना वातं सगोगोपालकोअच्युत: || १||
कुसुमितवनराजिशुष्मिभृंग द्विज कुल्घुष्टसर: सरिन्महीध्रम |
मधुपतिरवगाह्य चारयन गा: सह्पशुपालबलश्चुकूज वेणुम ||२||
तद व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम |
काश्चित परोक्षम कृष्णस्य स्वसखीभ्योंअन्ववर्णयन ||३||
तद वर्णयितुमारब्धा: स्मरंत्य: कृष्णचेष्टितम |
नाशकन समरवेगेन विक्षिप्तमनसो नृप ||४||
बर्हाप़ीड़ नटवरवपु: कर्णयो: करणीकारम |
बिभ्रद वासः कनक कपिषम वैजयंतीम च मालाम ||
रन्ध्रान वेणोंरधरसुधया पूरयन गोपवृन्दैर्वृन्दारणयं
स्वपदरमणं प्राविषद गीतकीर्ति: || ५ ||
इति वेणुरवं राजन सर्वभूत मनोहरम |
श्रुत्वा ब्रजस्त्रियः सर्वा वर्ण यन्त्योअभिरेभिरे ||६||
गोप्य ऊचु :
अक्षणवताम फलमिदं न परं विदामः
सख्यः पशूननु विवेश्यतोर्वयासयै: |
वक्त्रं ब्रजेशसुतयोरनुवेणु जुष्टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षं ||७||
चूत प्रवाल बर हस्त बकोतप्लाब्ज –
मालानुपृक्तपरिधानविचित्रवेशौ |
मध्ये विरेजतुरलम पशुपाल गोष्ठ्याम ||८||
रंगे यथा नटवरौ क्व च गायमानौ |
गोप्यः किमाचरदयं कुशलं स्म वेणु –
र्दामोदाराधर सुधामपि गोपिकानाम |
भुंगक्ते स्वयं यद्वशिष्टरसं हृन्दियो
हृष्यतत्वचोअश्रु मुमुचुस्तरवो यथाआर्यः ||९||
वृन्दावनं सखी भुवो वितनोति कीर्ति
यद् देव्किसुतपदाम्बुजलब्धलक्ष्मि |
गोविन्दवेणुमनु मत्तमयूरनृत्यं
प्रेक्ष्याद्रिसांवपरतान्यसमस्तसत्त्वं ||१०||
धन्याः स्म मूढ़मतयोअपि हरिंया एता
या नन्दनंदनमुपात्तविचित्रवेषं |
आकर्णय वेणुरणीतं सह्कृष्णसारा:
पूजां दधुर्विरचितां प्रणयiवलोकैः || ११ ||
कृष्णं निरीक्ष्य वनितोत्सव रूपशीलं
श्रुत्वा च तत्वकणीतवेणुविचित्रगीतं |
देव्यो विमानगतय: स्मरनुन्न्सारा
भ्रश्यतप्रसूनकबरा मुमुहुर्विनीव्य: ||१२||
गावश्च कृष्ण मुखनिर्गतवेणुगीत –
पीयूषमुत्तिभितकर्णपुटैः पिबन्त्य: |
शावाः स्न्नुत्स्तनपय: कवला: स्म तस्थु –
गोर्विन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ||१३||
प्रायो बताम्ब विहगा मुनयो वनेस्मिन
कृष्णेक्षितं तदुदितं कलवेणुगीतं |
आरुह्य ये द्रुमभुजान् रुचिर प्रवालान
शृण्वन्त्यमिलितदृशो विगतान्यवचाः ||१४||
नध्यस्तदा तदुपधार्य मुकुन्दगीत –
मावर्तलक्षितमनोभवभग्नवेगाः |
आलिङ्गनस्थगितमूर्मिभुजैर्मुरारे –
गृर्हन्ति पादयुगलं कमलोपहाराः ||१५||
दृष्ट्वाआतपे व्रजपशून सह् रामगोपौः
सञ्चारयन्तमनु वेणुमुदीरयन्तं |
प्रेमप्रवृद्द उदित: कुसुमावलीभिः
सख्युर्व्यधात स्ववपुषांबुद आतपत्रं ||१६||
पूर्णाः पुलिन्ध्य उरुगायपदाब्जराग –
श्रीकुंकुमेन दयितास्तनमण्डितेन |
तद्दर्शनस्मररुजस्त्रुनरूषितेन
लिम्प्न्त्य आननकुचेषु जहुस्तदाधिं ||१७||
हन्तायमद्रिरबला हरिदासवर्यो
यद रामकृष्णचरणस्पर्शप्रमोदः |
मानं तनोति सह्गोगणयोस्त्योर्यत
पानीयसूयवसकन्दरकन्दमूलैः ||१८||
गा गोपकैरनुवनं नयतोरूदार –
वेणुस्वनै: कलपदैस्तनुभृत्सु सख्यः |
अस्पन्दनं गतिमतां पुलकस्तरूणां
निर्योगपाशकृतलक्षणयोर्विचित्रं ||१९||
एवं विधा भगवतो या वृन्दावनचारिणः
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयन्तां ययुः ||२०||
इति श्रीमद्भागवते महापुराणे पारमहन्स्यां संहितायां दशमस्कन्दे पूर्वार्धे
” वेणुगीतं “नमैकविन्षोअध्यायाः ||२१||