Shri ShivRamAshtakam Stotra

श्री शिवरामाष्टक स्तोत्र-

शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे विभो ।

अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ।।1।।

कमललोचन राम दयानिधे हरगुरो गजररक्षक गोपते ।

शिवतनो भव शंकर पाहि मां शिव हरे विजयं कुरु मे वरम् ।।2।।

सुजनरञ्जन मंगलमन्दिरं भजति ते पुरुष: परमं पदम् ।

भवति तस्य सुखं परमद्भुतं शिव हरे विजयं कुरु मे वरम् ।।3।।

जय युधिष्ठिरवल्लभ भूपते जय जयार्जितपुण्यपयोनिधे ।

जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ।।4।।

भवविमोचन माधव मापते सुकविमानसहंस शिवारते ।

जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ।।5।।

अवनिमण्डलमंगल मापते जलदसुंदर राम रमापते ।

निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ।।6।।

पतितपावन नाममयी लता तवयशो विमलं परिगीयते ।

तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ।।7।।

अमरतापरदेव रमापते विजयतस्तव नामधनोपमा ।

मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ।।8।।

हनुमत: प्रिय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो ।

मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ।।9।।

अहरहर्जनरञ्जनसुन्दरं पठति य: शिवरामकृतं स्तवम् ।

विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ।।10।।

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानस: ।

विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ।।11।।