Shree Ganesh Panchratna Stotram
श्री गणेश पन्चरत्न स्तोत्र
मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् l
कलाधरावतंसकं विलासि लोकरक्षकम् l
अनायकैक नायकं विनाशितेभदैत्यकम् l
नताशुभाशुनाशकं नमामि तं विनायकम् ll
नताशुभाशुनाशकं नमामि तं विनायकम् ll
नतेतरातिभीकरं नवोदितार्कभास्वरम् l
नमत्सुरारि निर्जरं नताधिकापदुद्धरम् l
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं l
महेश्वरं तमाश्रये परात्परं निरन्तरम् ll
महेश्वरं तमाश्रये परात्परं निरन्तरम् ll
समस्त लोकसंकरं निरस्तदैत्यकुंजरम् l
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ll
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् l
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ll
अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् l
पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम् ll
प्रपंच नाशभीषणं धनंजयादि भूषणम् l
कपोलदानवारणं भजे पुराणवारणम् ll
नितान्तकान्तदन्तकान्ति मन्तकान्तकात्मजम् l
अचिन्त्य रुपमन्तहीन मन्तरायकृन्तनम् l
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम् l
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ll
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ll
फलश्रुती
महागणेश पंचरत्नम् आदरेण योन्वहम् l
प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम् ll
अरोगितामदोषतां सुसाहितीं सुपुत्रताम् l
समाहितायु रष्टभूतिमभ्युपैति सोचिरात् ll